अथ ह वै त्रयः पूर्वेऽग्नय आसुर्भूपतिर्भुवनपतिर्भूतानां पतिः ।
अयं वै लोको भूपतिरन्तरिक्षं भुवनपतिरसावेव लोको भूतानां पतिः ।
अथ हायं भूतिर्नाम ।
तेषां ह वषट्कारश्शीर्षाणि चिच्छेद ।
त इमास्तिस्रः पृथिवीः प्रविविशुः ।
तस्माद्यदग्निहोत्रस्य वाज्यस्य वावस्कन्देत्तदभिमृशेद्भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति ।
एतेषु हैवास्याग्निषु हुतमस्कन्नं भवति ।
अथ ह वै त्रयः पूर्व ऋषय आसुश्शूर्पंयवमस्ह्वाना अन्तर्वान्कृषिस्सोल्वालाः ।
ते ह यज्ञस्य कृन्तत्राणि ददृशुः ।
तस्यैताः प्रायश्चित्तीर्ददृशुः शं च म उप च म आयुश्च मे भूयश्च मे यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्वेति ।
तस्मादेता दर्शपूर्णमासाभ्यां वा चातुर्मास्यैर्वा पशुबन्धेन वा सौम्येन वाध्वरेणेष्ट्वोपरिष्टाज्जपेत् ।
यदेवात्र यज्ञस्य विधुरं भवति तदेव तेन शमयति ।
प्राण एवाविषुवतो व्यानो विषुवानपानो यदूर्ध्वं विषुवतः ।
अपानो वा इदं सर्वमाहरति ।
तस्माद्वयं परस्ताद्विषुवतोऽर्वाचष्षडहानुपैमः ४१