०४०

तदाहुः किं नातिष्टुवन्ति किं नातिशंसन्ति किं नातिगृह्णन्तीति ।

स ब्रूयात्प्राणमेव नातिष्टुवन्ति ।

स्तुते वै प्राण एव परिशिष्यते ।

वाचमेव नातिशंसन्ति ।

शस्ते वै वागेव परिशिष्यते ।

मन एव नातिगृह्णन्ति ।

गृहीते वै मन एव परिशिष्यते ।

नातिष्टुतं नातिशस्तं नातिगृहीतमेवंविदस्सम्पन्नमेव भवति ।

अथ ह वै समृद्ध एव यज्ञ उपासितव्यः ।

यदधीयन्ननुपहन्यमानः करोति तत्स्वर्ग्यम् ।

स्वर्ग्यं म एतत्स्वर्गलोक एतेन भविष्यामीत्येव तद्विद्यात् ।

अथ यद्दुरधीयन्नुपहन्यमानो विषिञ्चन्करोति पुष्टिस्सा प्रजननम् ।

पुष्टिर्म एषा प्रजननं बहुर्भविष्यामि प्रजनिष्य इत्येव तद्विद्यात् ४०