०३९

तदाहुर्यदन्यैरन्यैः सामभि स्तुवतेऽन्या अन्या अनुशंसन्त्यथ कस्मात्समाना गृहा इति ।

स ब्रूयादन्नं वै साम ।

अन्नमृक् ।

प्राणा गृहाः ।

अन्यदन्यद्वै प्राणेभ्योऽन्नमाहरन्ति ।

तस्मादन्यैरन्यैः सामभि स्तुवतेऽन्या अन्या अनुशंसन्ति समाना एव गृहा इति ।

प्राणा एव साम ।

तन्मूलम् ।

अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्यानि सामानि ।

स य एतदेवं वेद सर्वाण्येवास्य सामानि विदितानि भवन्ति ।

वागेवर्क् ।

तन्मूलम् ।

अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्या ऋचः ।

स य एतदेवं वेद सर्वा एवास्यर्चो विदिता भवन्ति ।

मन एव यजुः ।

तन्मूलम् ।

अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवमन्यानि यजूंषि ।

स य एतदेवं वेद सर्वाण्येवास्य यजूंषि विदितानि भवन्ति ३९