०३८

तानि वा एतानि दीक्षमाणादुत्क्रामन्त्यग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः पितृयज्ञो गृहमेधो ब्रह्मौदनो मिथुनम् ।

तद्यद्दीक्षोपसत्सु स्वाहेति व्रतयति तेनास्य दीक्षोपसत्स्वनन्तरितमग्निहोत्रं भवति ।

यदुपांश्वन्तर्यामावुदितेऽन्यं जुह्वत्यनुदितेऽन्यं तेन सुत्यायाम् ।

यत्पुरोडाशस्तेन पौर्णमासम् ।

यद्दधि तेनामावास्यम् ।

यत्पयस्या तेन चातुर्मास्यानि ।

यत्पशुमालभन्ते तेन पशुबन्धः ।

यदुपासनान्युपास्यति तेन पितृयज्ञः ।

यद्धानाः करम्भो भवति तेन गृहमेधः ।

यत्सौम्यमाहरति तेन ब्रह्मौदनः ।

यत्पत्नीस्सङ्ख्यापयति तेन मिथुनम् ।

तद्धैक आहुः प्राणेन त्वा सम्भवामनीत्येव प्रतिष्णामभिप्राण्यानीति ।

तदु होवाच शाट्यायनिरवकीर्णरूपमिवैतत् ।

एको वाव पुमान्प्राणावे विद्ययैवैतदनन्तरितमथो यदेव यज्ञायज्ञीयस्य स्तोत्रे सङ्ख्यापयन्ति ३८