०३७

तदेतत्पृच्छन्ति किं तद्दिवाकीर्त्येऽहन्क्रियते येन प्रजाः प्रजनयति येन च प्रजा दाधारयति ।

स ब्रूयात्प्राणस्यैव रेतो निर्मितं यद्दिवाकीर्त्यम् ।

प्रजननं जगती ।

तेन प्रजाः प्रजनयति ।

अथ यत्प्राणो भूत्वा पराणि चावराणि चाहानि दाधर्ति तेनो एव प्रजा दाधारयति ।

प्राण एव दिवाकीर्त्यम् ।

चक्षुषी भ्राजाभ्राजे ।

श्रोत्रं विकर्णम् ।

वाग्दशस्तोभम् ।

त इमे प्राणा मध्यतो हिताः ।

तद्धैतदेक उदित एवाज्यग्रहान्गृह्णन्ति ।

उदिते प्रातरनुवाकमुपाकुर्वन्ति ।

दिवाकीर्त्यं वै नामैतदहः ।

तन्न रात्र्या संसृजेयुरिति ।

तदु होवाच शाट्यायनिस्सामभिर्वा अहान्यभिष्टुतान्यृग्भी रात्रयः ।

सैषां रात्रिरनभिष्टुता शून्या भवति ।

अथो प्रजापतिरेष यत्प्रातरनुवाकः ।

तमायतनाच्च्यावयन्ति ।

स य एनांस्तथा चक्रुषो ब्रूयादायतनाद्वा च्योष्यन्तेऽस्माद्वा लोकादिति तथा हैव स्युः ।

तस्माद्यथैवेतरेषामह्नां तथा कार्यम् ।

प्राणापानावुपांश्वन्तर्यामौ ।

उदितेऽन्यं जुह्वत्यनुदितेऽन्यम् ।

बहिर्वै सन्तं प्राणमुपजीवन्त्यन्तस्सन्तमपानम् ।

तद्यदुदितेऽन्यं जुह्वत्यनुदितेऽन्यं बहिस्सन्तं प्राणमुपजीवामान्तस्सन्तमपानमिति ।

अथ य एतावुदिते जुह्वति प्राणापानावुत्खिदन्ति ।

स य एनांस्तथा चक्रुषो ब्रूयात्प्राणापानावुदखात्सुर्मरिष्यन्तीति तथा हैव स्युः ।

तस्माद्यथैवेतरेषामह्नां तथा कार्यम् ३७