\बार्हतो विषुवान्बार्हतो वासावादित्यः ।
बृहत्यामेष एतदध्यूढस्तपति ।
तस्माद्बृहतीष्वेव बृहत्पृष्ठं कार्यमिति ।
अथ हैके बृहतीष्वेव दिवाकीर्त्यं पृष्ठं कुर्वन्ति ।
बृहत्यायतनानि पृष्ठानि ।
इदं वा अन्तरिक्षं बृहती ।
तस्यामयं वायुरन्तः पवते ।
तत्पृष्ठं तस्या उ एव यद्द्वादशाक्षरं पदं तेन जगतीषु कृतं भवति ।
एवं तृतीयसवनमयातयाम क्रियत इति ।
तदु होवाच शाट्यायनिर्जागतो विषुवान् ।
जागतमेतत्साम ।
जागतोऽसावादित्यः ।
यदा ह्येष उदेत्यथ जगदेतस्यैव प्रयाणमनु प्रैति ।
तस्माज्जगतीष्वेव दिवाकीर्त्यं पृष्ठं कार्यमिति ।
ततो यास्तिस्रो जगत्यश्चतस्रस्ता बृहत्यः ।
तेन बृहतीषु कृतं भवति ।
तास्संस्तुता अष्टाविंशतिर्बृहत्यस्सम्पद्यन्ते ।
तेनो एव बृहत्यन्तरिता भवति ।
अथो हैतत्प्राणस्यैव रेतो निर्मितं यद्दिवाकीर्त्यम् ।
प्रजननं जगती ।
सोऽसावादित्यः ।
तद्यज्जगतीषु दिवाकीर्त्यं पृष्ठं कुर्वन्ति स्वेनैवैनं तदायतनेन समर्धयन्ति ।
तेनैभ्यः समृद्धेन स्वायां जनतायामर्धुकं भवति ३६