तद्धैतदेके स्वरसाम्नां स्वराण्येव पृष्ठानि कुर्वन्ति ।
पृष्ठेन वा अहराख्यायते स्वरसामान इत्येत आख्यायन्ते ।
तस्मात्स्वरसाम्नां स्वराण्येव पृष्ठानि कार्याणीति ।
ते चेत्स्वराणि पृष्ठानि कुर्युर्यानि ष्टं भवन्ति तान्येकबृहतीषु कुर्युः ।
तदु होवाच शाट्यायनिर्वयं वाव प्रत्यक्षं स्वराणि पृष्ठानि कुर्मो ये बृहद्र थन्तरे कुर्मः ।
इदं वै रथन्तरमदो बृहत् ।
आभ्यामु वै लोकाभ्यामिदं सर्वं स्पृतम् ।
तस्माद्बृहद्र थन्तरे एव पृष्ठे कार्ये इति ।
अथो हैते विच्छिन्नान्स्वरसाम्न उपयन्ति ये त्रीण्युपयन्ति ।
सर्वाण्येव कार्याणि ।
तथा द्वाभ्यां द्वाभ्यामहस्तायते ।
एवं सङ्गृहीता स्वरसामानो भवन्त्यविच्छिन्नाथो पापवस्यसस्य व्यावृत्त्या इति तद्धैतदेके विषुवतो बृहतीष्वेव बृहत्पृष्ठं कुर्वन्ति ३५