तदाहुर्यत्षट्कृत्वः पुरस्ताद्विषुवतः पृष्ठ्यान्युपयन्ति विष्वजिति सप्तममुपरिष्टात्कथं तत्सभारमिति ।
स ब्रूयाद्यद्वा अर्वाचीनं विषुवतस्तदयं लोको यदूर्ध्वं विषुवतस्तदसौ लोकः ।
आसन्न इव वा अयं लोकः ।
प्ररिक्त इवासावन्यः ।
द्वितीयो ह्ययं लोकः ।
तद्यद्विश्वजिति सप्तममुपरिष्टात्पृष्ठ्यान्युपयन्त्येवं सभारमिति ।
अथो य एवं विश्वजित्पृष्ठमयमेव ।
गौर्वै रथतरमश्वो बृहदजा वैरूपमविर्वैराजं व्रीहयश्शक्वर्यो यवा रेवतयः ।
स एष रथस्संसक्तो यत्पृष्ठानि ।
तस्यैषोऽक्षो यद्गायत्रीषु बृहदग्निष्टोमसाम भवत्येतस्य रथस्यानपव्याथाय ।
अथ य एतन्निर्हृतपृष्ठमुपयन्ति विषक्तरथं ते विश्वजितं शून्यमुपयन्ति ।
ते न किं चन व्यश्नुवते ।
तस्मात्पृष्ठमय एव विश्वजित्कार्य इति ३४