०३३

तदाहुर्यदिदं प्रायणीयमहस्त्रिवृदाचक्षते प्रायणीयमित्यदश्चतुर्विंशं कथमेतत्त्रिवृता प्रयतं भवतीति ।

स ब्रूयाद्यदेवैते चत्वारिंशत्त्रिवृतस्सम्पद्यन्ते तेन त्रिवृता प्रयतं भवतीति ।

अथो यच्चतुर्विंशत्यक्षरा गायत्री तेनो एवेति ।

तदाहुः कथमेतद्वैषुवतीयमहश्छन्दोम्यं भवतीति ।

स ब्रूयाद्यावन्ति सप्तानां चतुरुत्तराणां छन्दसामक्षराणि तावत्येतस्याह्न स्तोत्रियाः ।

तेन छन्दोम्यं भवतीति ।

तदाहुर्यदुपरिष्टाद्विषुवतश्छन्दोमानुपयन्ति कथं पुरस्ताद्विषुवतश्छन्दोमा उपेता भवन्तीति ।

स ब्रूयाद्य एवैष आरम्भणीयस्याह्नश्चतुर्विंशश्छान्दोमिकस्तोमस्तेन पुरस्ताद्विषुवतश्छन्दोमा उपेता भवन्तीति ।

अथो यदेव पृष्ठ्यस्य द्वे द्वे अहनी समस्ते छन्दोमास्सम्पद्यन्ते तेनो एवेति ३३