तदाहुर्यदेते पृष्ठ्यस्य विषमा स्तोमास्त्रिवृत्पञ्चदशस्सप्तदश एकविंशस्त्रिणवस्त्रयस्त्रिंश इति कथमेतत्समात्सममुपेतं भवतीति ।
स ब्रूयाद्ब्रह्म वै त्रिवृत् ।
क्षत्रं पञ्चदशः ।
ब्रह्म वै क्षत्राज्ज्यायः ।
तेन समात्सममुपेतं भवति ।
विट्सप्तदशः ।
क्षत्रमु वै विशो ज्यायः ।
तेन समात्सममुपेतं भवति ।
एकविंशं स्तोममनु शूद्रः ।
वैश्यो वै शूद्रा ज्ज्यायान् ।
तेन समात्सममुपेतं भवति ।
त्रिणवं स्तोममनु ग्राम्याः पशवः ।
शूद्रो वै ग्राम्येभ्यः पशुभ्य श्रेयान् ।
अत्ता हि स तेषाम् ।
तेन समात्सममुपेतं भवति ।
त्रयत्रिंशं स्तोममन्वारण्याः पशवः ।
ग्राम्या वै पशव आरण्येभ्यः पशुभ्य श्रेयांसः ।
बिभ्यत इतरे चरन्त्यधिगन्तेतरेषां हन्ता ।
तेन समात्सममुपेतं भवति ।
तदाहुः कस्मादेकरूपोऽभिप्लवो द्विरूपः पृष्ठ्यस्समान एव सन्व्यूढश्च समूढश्चेति ।
स ब्रूयाद्यस्मादिदं ब्रह्म ब्रह्मैव ।
अथ यस्मादु क्षत्रियस्सन्ब्राह्मणो भवति तस्मादेकरूपोऽभिप्लवो द्विरूपः पृष्ठ्य इति ।
तद्धैतदेकेऽभिप्लवस्य षष्ठमहरुक्थ्यं कुर्वन्त्येवं सभारमिति ।
तदु होवाच शाट्यायनिर्मोहयन्ति तेऽभिप्लवं ये तथा कुर्वन्ति ।
अब्रह्म तर्हि भवति ।
तस्मात्तथा न कार्यमिति ।
अथ हैके पृष्ठ्यस्य षष्ठादह्नो द्विपद उद्धरन्त्येवं सभारमिति ।
तदु होवाच शाट्यायनि स्वर्ग एष लोको यत्पृष्ठ्यष्षडहः ।
यजमान एष निदानेन यद्द्विपदः ।
तमायतनाच्च्यावयन्ति ।
स य एनांस्तथा चक्रुषो ब्रूयादायतनाद्वा च्योष्यन्तेऽस्माद्वा लोकादिति तथा हैव स्युः ।
तस्मात्तथा न कार्यमिति ३२