अयमेव स्पृष्ट्यो योऽयं पवते ।
एतेन हीदं सर्वं स्पृष्टम् ।
स्पृष्ट्यो ह वै नामैषः ।
तं पृष्ठ्य इति परोक्षमाचक्षते ।
सर्वान्कामान्स्पृशति य एवं वेद ।
असावेवाभिप्लवो योऽसौ तपति ।
एष हीदं सर्वमभिप्लवते ।
तदाहुर्यत्पृष्ठ्याभिप्लवावित्याचक्षतेऽभिप्लवमु वै पूर्वमुपयन्ति ।
कथं पृष्ठ्यः पूर्व उपेतो भवतीति ।
स ब्रूयाद्यदेवायमवरो वायुः पवते पर आदित्यस्तेनेति ।
अथो यत्परं सन्तमभिप्लवमवरमुपयन्ति व्यतिषङ्गायानिर्मार्गाय सर्वायुष्टायै ।
तदाहुर्यच्चत्वारोऽभिप्लवस्य स्तोमाष्षट्पृष्ठ्यस्य कथं तत्सभारमिति ।
स ब्रूयाद्यदेवैते सदृश्यौ देवते वायुश्चादित्यश्च तेन सभारमिति ।
अथो यद्ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यस्तेनो एवेति ३१