अहोभिरिति ब्रूयात् ।
कथमहोभिरिति ।
अतिरात्रावारम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवावभिजित्त्रय स्वरसामानः प्रत्यञ्चस्त्रय स्वरसामानो विश्वजिद्गोआयुषी दशरात्रो वैषुवतमेव सप्तत्रिंशमेतस्मिन्स्वर्गे लोकेऽध्यूढम् ।
तस्यैष श्लोकः
तां विंशतिस्सप्तशतानि चाहुष्
षट्त्रिंशिनीं बृहतीं कल्पमानाम्
सानुष्टुब्भूत्वा पशुभिस्सयोनिर्
देवान्पितॄन्ददते मनुष्यांश्च
इति ।
तां विंशतिस्सप्तशतानि चाहुरित्यहोरात्रा एव ते ।
षट्त्रिंशिनीं बृहतीं कल्पमानामित्येवं ह तदहोभिष्षट्त्रिंशिनी बृहती कल्पते ।
सानुष्टुब्भूत्वा पशुभिस्सयोनिरितीयमेव दिग्गामाहरदियमश्वमियमजामियमविम् ।
अनुष्टुभे वा एतस्यै सत्यै दिशश्शुल्कमाहरन्नित्येवं ह तत् ।
देवान्पितॄन्ददते मनुष्यांश्चेति ।
वाग्वा अनुष्टुप् ।
वाचो वा इदं सर्वं यतम् ।
एवं वै संवत्सर एकच्छन्दा बार्हतो भवतीति ३०