०२९

तदाहुः किं संवत्किं सरं किमयनमिति ।

स ब्रूयात्त्रय्येव विद्या संवत् ।

तां हि सर्वे देवास्संवान्ताः ।

अहोरात्रे एव सरः ।

ते हीदं सर्वं सरतः ।

आदित्य एवायनम् ।

स ह्येषु लोकेष्वेति ।

इत्यधिदेवतम् ।

अथाध्यात्मम् ।

अन्नमेव संवत् ।

तद्धीदं सर्वं संवान्तम् ।

वागेव सरः ।

वाचा हि पुरुषस्सरति ।

प्राण एवायनम् ।

स ह्यस्मिन्सर्वस्मिन्नेति ।

स य एवमेतदधिदेवतं चाध्यात्मं च संवत्सरायणं वेदानार्त एव संवत्सरस्योदृचं गच्छति तदाहुः कथं संवत्सर एकच्छन्दा बार्हतो भवतीति २९