यदि च स ह सत्त्रमास्ते यदि च नाथ हास्यासितमेव सत्त्रं भवति ।
य उ एवं विद्वाञ्छ्रममुपपरैत्येते एवास्य देवते भागास्सत्त्रमासाते सोऽनार्तस्संवत्सरस्योदृचं गच्छति ।
असावेव संवत्सरो योऽसौ तपति ।
तस्य यद्भाति तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सर इत्यधिदेवतम् ।
अथाध्यात्मम् ।
अयमेव संवत्सरो योऽयं चक्षुषि पुरुषः ।
तस्य यच्छुक्लं तत्संवद्यन्मध्ये कृष्णं मण्डलं तत्सरः ।
तस्यैष श्लोकः
मदेवोदेति सूर्योऽस्तं मदु च गच्छति
मां सर्वे देवा अन्वायत्ता मामु नात्येति किं चन
इति ।
मदेवोदेति सूर्य इत्येवंविदो ह वाव सूर्य उदेति ।
अस्तं मदु च गच्छतीत्येवंविदो ह वावास्तमेति ।
मां सर्वे देवा अन्वायत्ता इत्येवंविदं ह वाव सर्वे देवा अन्वायत्ताः ।
मामु नात्येति किं चनेत्येवंविदं ह वाव न किं चनात्येति २८