०२७

न ह ब्रूयात्सत्त्रमासिष्य इति ।

श्रमिष्यामीत्येव वक्तव्यम् ।

द्वे ह वाव देवते सत्त्रमासाते प्राणापानावेव ।

तयोस्सोऽभ्यारोहः ।

तद्यत्ताविदं सत्त्रायेते तस्मात्तौ सत्त्रसदौ ।

तस्मादु श्रमिष्यामीत्येव वक्तव्यम् ।

तस्यैष श्लोकः

सप्तर्षयः प्रतिहितास्सुभूते

सप्त पश्यन्ति बहुधा निविष्टौ

सप्तैतं लोकमुपयन्त्यापो

ऽस्वप्नजौ सत्त्रसदौ यत्र देवा

इति ।

सप्तर्षयः प्रतिहितास्सुभूत इति पुरुषो वै सुभूतम् ।

त इमे सप्तर्षयः प्रतिहिताः प्राणा एव ।

स्पत पश्यन्ति बहुधा निविष्टाविति बहुधा ह्येतौ निविष्टौ पश्यन्ति यत्प्राणापानौ ।

सप्तैतं लोकमुपयन्त्याप इतीमा द्वयीराप इमा द्वयीरिमा एका इमा द्वयीरवाचीः ।

अस्वप्नजौ सत्त्रसदौ यत्र देवा इत्येते एव ते देवते स य एतदेवं वेद २७