०२६

\क्षेमं च विमोकं च ।

अथ हाप श्रेयसीर्मेनिरे ।

ताः प्रति त्वा वयमातपाम इति यात्रां च प्रयां च प्रायच्छन् ।

अद्भिर्ह वा एष एतदेत्यपामेवायनेन ।

तासामेतासामूर्ध्वाश्छायाः प्रति हैनं तदातपन्ति ।

स एवमेता दिश उपाप्नोति ।

अस्यै प्राच्यै दिश उदेति ।

अभ्युदेतीमामूर्ध्वां दिशम् ।

षडित्थं मास एति षडित्थम् ।

समयान्तरिक्षमेति ।

अभ्यस्तमेतीमां अपरां दिशम् ।

अन्विमां पृथिवीमातपति ।

तद्यथा पतिर्जाया अनुसञ्चरेदेवमेवैना एष एतदनुसञ्चरति ।

स षक्षताहमेवेदं सर्वं संवृणजा इति ।

स वशमेव दिव आदत्त क्षत्रं नक्षत्राणामात्मानमन्तरिक्षस्य रूपं वायोराज्ञां मनुष्याणां चक्षः पशूनामूर्जमपां रसमोषधीनां चरथं वनस्पतीनां शिश्नं वयसामर्चिषमग्नेर्हृदयं पृथिव्यै गन्धं हिरण्यस्य स्तनयित्नुं वाचस्सङ्गमं पितॄणां भां चन्द्र मसः ।

तद्यदेतेषां भूतानामादत्त तदादित्यस्यादित्यत्वम् ।

स य एतदेवं वेदैष एवादित्यो भूत्वैतस्यां राजासन्द्यामास्ते २६