त ऋङ्मया यजुर्मयास्साममया ब्रह्ममया हिरण्मया अमृतास्सम्भवन्ति ।
ऋङ्मयो ह वै यजुर्मयस्साममयो ब्रह्ममयो हिरण्मयोऽमृतस्सम्भवत्यृङ्मयान्यस्यास्थानि भवन्ति य एवं वेद ।
तानुद्गाता पुरस्तात्संवत्सरस्य जनयित्वा होत्रे प्रयच्छति ।
तान्होता सूक्तैस्सूते ।
तत्सूक्तानां सूक्तत्वम् ।
ताञ्छस्त्रैः प्रशास्ति ।
तच्छस्त्राणां शस्त्रत्वम् ।
तानुक्थैरुत्थापयति ।
तदुक्थानां उक्थत्वम् ।
तेभ्य एतद्देव्यं मध्वशीतिभिरन्नाद्यं प्रयच्छति ।
मधु हास्यास्मिंश्च लोकेऽमुष्मिंश्चान्नं भवति य एवं वेद ।
अक्षरेणाक्षरेणो हास्मै विद्यास्सर्वान्कामान्दुह्रे ।
तस्मात्संवत्सर एव शस्यं संवत्सरे प्रोच्यम् ।
तस्माद्ब्राह्मणो हतो न स्तायाद्भवति ।
तस्माद्रे तस्सिक्तं न स्तायाद्भवति ।
तस्मादु हैवं विद्वान्न स्तायाद्भवति ।
अशीतिभिर्वै देवा इमाल्ँ लोकानिमानध्वन आश्नुवत ।
तदशीतीनामशीतित्वम् ।
तिसृभिरेवेमं लोकमाश्नुवत तिसृभिरन्तरिक्षं तिसृभिरमुं चतसृभिरेव दिश आश्नुवत चतसृभिरवान्तरदेशानेकयामूमूर्ध्वां द्वानवाशीतयोऽभवन् ।
नव प्राणाः ।
अश्नुते प्राणान् ।
सप्राणस्सम्भवति ।
सर्वमायुरेति ।
नाकामो म्रियते २४