०२३

तदाहुः कां देवतां दीक्षमाणा अनुनिषीदन्ति कामनूत्तिष्ठन्तीति ।

स ब्रूयादग्निं देवतानां दीक्षमाणा अनुनिषीदन्त्यादित्यमनूत्तिष्ठन्तीति ।

तस्माद्दीक्षितान्सत आहुरासत इति यद्यपि ते शयीरन्नथोत्तिष्ठेयुः ।

अग्निर्हि देवानामासीनानां श्रेष्ठः ।

अग्निदेवत्या हि तर्हि भवन्ति ।

तस्मादुत्थितान्सत आहुरुदस्थुरिति यद्यपि त आसीरन्नथो शयीरन् ।

आदित्यो हि देवानामुत्थितानां श्रेष्ठः ।

आदित्यदेवत्या हि तर्हि भवन्ति ।

तदाहुः के भूत्वोत्तिष्ठन्तीति ।

स ब्रूयान्मनुष्या भूता दीक्षन्ते देवा भूत्वोत्तिष्ठन्तीति ।

त एतदृग्रेतसं यजूरेतसं ब्रह्मणि योनौ रेतो दधतो यन्ति ।

अग्नावेव तदाहुतीभिरभिजुह्वतो यन्ति ।

तस्माद्दीक्षोपसत्सु वीव ग्लायन्ति ।

तरुणमिव तर्हि रेतो भवति ।

तस्मादु स्त्री दुर्हृदिनी वीव ग्लायति ।

तरुणमिव हि तर्हि रेतो भवति ।

तान्स्तुतिशस्त्रैस्त्रिर्वर्धयन्तोऽभिशृण्वन्तो यन्ति ।

तस्माद्गर्भा अनश्नतस्सम्भवन्ति २३