तदाहुरिलान्दमेवैतस्याह्नो अग्निष्टोमसाम कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा ।
अतिरिच्यते यद्व्यवच्छिन्द्युरामणीयं तद्यददः पक्षम् ।
इलान्दं तदार्भवस्य पवमानस्यानुष्टुभि कार्यं यदभ्युदितं तन्नेदन्तरयामेति ।
वारवन्तीयमेव कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा ।
निषिद्धमिव तु यावद्धैव कृत्वो यजते तावद्बुभूषति तावत्कामयते श्रेयान्स्यां श्रेयान्स्यामिति ।
तदार्भवस्यैव पवमानस्य गायत्र्यां कार्यं यदभ्युदितं तन्नेदन्तरयामेति ।
तदु वा आहुर्यद्वावान्या वाङ्नातिवदति तदेतस्याह्नोऽग्निष्टोमसाम कार्यम् ।
यज्ञायज्ञीयं वावान्या वाङ्नातिवदति ।
वाग्वै यज्ञायज्ञीयम् ।
कुतो हि वाग्वाचमतिवदिष्यति ।
तस्मादेतस्याह्नो यज्ञायज्ञीयमेवाग्निष्टोमसाम कार्यमिति ।
अथैतच्चतुस्त्रिंश-सम्मितमनुष्टुभि कुर्वन्ति ।
त्रयस्त्रिंशद्वै देवताः ।
प्रजापतिश्चतुस्त्रिंशः ।
सप्रजापतिका एवैतेन देवा ऋध्नुवन्ति ।
अथ यदारम्भणीयेऽहंस्त्रयस्त्रिंशत्सम्मितं भवति देवता एव तेनर्ध्नुवन्ति ।
अथैतेन सप्रजापतिका एवैतेन देवता अन्तत ऋद्ध्वाप्त्वोत्तिष्ठन्ति २२