०२१

तदाहुर्नौधसमेवैतस्याह्नो ब्रह्मसाम कार्यमिति ।

तद्ध तत्पक्षमनुवदति ।

रथन्तरमेव श्यैतमेव कार्यमिति ।

तदु ह तत्पक्षमेवानुवदति ।

बृहदेव पञ्चनिधनमेव वामदेव्यं कार्यमिति ।

आत्मानं हैव तदनुवदति ।

श्रायन्तीयमेव कार्यमिति न ह वै किं चन श्रायन्तीयमनुवदति ।

महावैष्टम्भमव कार्यम् ।

तद्दिङ्निधनं भवति ।

दिशो वै पृष्ठानि ।

इयमेव प्राची दिग्रथन्तरमियं बृहदियं वैरूपमियं वैराजममूर्महानाम्नीरिमा रेवतयः ।

दिग्भ्यो वा एतस्मा अन्नाद्यं हरन्ति ।

दिग्भ्यो वा अस्मा अन्नाद्यं ह्रियते य एवं वेद ।

अथो हैषामेतेनैव सर्वाणि पृष्ठानि ब्रह्मसामवन्ति भवन्ति ।

तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।

तदु सतोबृहतीषु भवत्युत्क्रान्त्या एवानपभ्रंशाय २१