पिण्डाः पिण्डा इव हि भवन्त्यक्रताः ।
यथाङ्गमेव स्तोतव्यम् ।
ते हैवामुष्मिल्ँ लोके साङ्गास्सतनवोऽमृतास्सम्भवन्ति ।
अथ हैके सकृदेव शीर्ष्णे हिङ्कुर्वन्ति पराङेतद्यच्छिर इति वदन्तः ।
त्रिस्त्रिरितरेभ्योऽङ्गेभ्यः ।
ते त्रयोदश हिङ्कारास्सम्पद्यन्ते ।
एवं त्रयोदशस्य मास उपाप्तिरिति ।
तदु ह शश्वन्न तथा ।
त्रिरेव शीर्ष्णे हिङ्कुर्वन्तस्त्रिस्त्रिरितरेभ्योऽङ्गेभ्यः ।
ते पञ्चदश हिंआरास्सम्पद्यन्ते ।
पञ्चदशो वा इन्द्रः ।
षन्द्रं महाव्रतं तत्तत्सलक्ष्म क्रियते २०