तदेतत्सर्वपृष्ठं सर्वस्तोममहः ।
तद्यदेतेन सामनिधनेन सर्वाणि पृष्ठान्यभिवदति तेन सर्वपृष्ठम् ।
अथ यदेते ज्योतिष्टोमस्य स्तोमाश्शिवाश्शान्ताः परिमाद्भाजनं भवन्ति तेन सर्वस्तोमम् ।
सम्पदा हैव त्रिणवत्रयस्त्रिंशौ स्तोमावभिसम्पद्येते ।
सर्वपृष्ठेन हास्य सर्वस्तोमेनैतेनाह्ना स्तुतं भवति य एवं वेद ।
तेन हैतेनैकेऽपि तृतीयं कृत्वा स्तुवत एकं वावेदं सामेति वदन्तः ।
तेषां ह तेषाममुष्मिल्ँ लोके नैव शिरश्चान्यानि चाङ्गानि विज्ञायन्ते १९