०१८

रेतो वा एतदग्रे प्रविशति यद्गायत्रम् ।

ततोऽन्यान्यङ्गानि विक्रियन्ते ।

प्राणो वा एष प्रविशति यद्गायत्रम् ।

तमन्यान्यङ्गान्युपसंसीदन्ति ।

स इमान्प्राणानाकाशानभिनिर्मन्थति ।

प्राणो वै गायत्रः ।

गायत्रं शिर एव ।

तदायतनो वै प्राणो यच्छिरः ।

तस्मात्त्रिवृतैव शीर्ष्णा प्रतिपद्यमथ पञ्चदशेन पक्षेणाथ सप्तदशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना ।

तदूर्ध्वाः कीर्तिमूर्ध्वा श्रियमूर्ध्वा स्वर्गं लोकं रोहन्ति ।

अथो हैषां तैरेव ज्योतिष्टोमस्य स्तोमैश्शिवैश्शान्तैरेतदहः परिष्टुतं भवति ।

अथो हैषामेत एव ज्योतिष्टोमस्य स्तोमाश्शिवाश्शान्ताः परिमाद्भाजनं भवन्ति १८