इमे रुद्रा इम आदित्या इमे विश्वे देवाः ।
अयमेवायं लोक इदमन्तरिक्षमयमसौ लोक इमा दिश श्रोत्रमिदं रथन्तरमिदं वामदेव्यमिदं बृहदिदं यज्ञायज्ञीयम् ।
तदेतच्छीर्ष्णा प्रतिपद्यमानस्सर्वाभिर्देवताभिस्सर्वैरेभिर्लोकैस्सर्वैस्सामभिरनन्तरायं प्रतिपद्यते ।
स यदितोऽन्येनाङ्गेन प्रतिपद्येत यैव तत्प्रतिपद्देवता स्यात्तामेवर्ध्नुयात् ।
अन्तरिता इतरा देवता स्युः ।
अथैतच्छीर्ष्णा प्रतिपद्यमानस्सर्वाभिरेव देवताभिरनन्तरायं प्रतिपद्यते ।
अथो हैतद्देवतानां प्रियं यच्छीर्ष्णा प्रतिपद्यते सर्वा नो नापरात्सीदिति १७