वागिति रथन्तरम् ।
इळेति वैरूपम् ।
तच्छक्वर्यस्तद्रे वतयः ।
स्वरिति वैराजम् ।
बृहदिति बृहत् ।
भा इत्यसौ वा आदित्यः ।
भा इत्येतदेवास्य निधनम् ।
एतस्य सलोमतामश्नुते य एवं वेद ।
तदेतत्सर्वाणि पृष्ठान्यभिवदत्येतेन सामनिधनेन ।
त उ वै पञ्च पञ्चविंशास्सामनिधनानां संस्तुतानां सम्पद्यन्ते ।
तानु एतान्निधनैरेव होतानुशंसति ।
तदाहुरात्मनाग्रे प्रतिपद्यमथ शीर्ष्णा ।
आत्मा वा अग्रेऽथ शिर इति ।
तदु ह तद्यथा कर्तं पतेत्तादृक्तद्यत्पञ्चविंशादात्मनस्त्रिवृच्छिरोऽभि प्रत्यवरोहेयुः ।
शीर्ष्णैव प्रतिपद्यम् ।
सर्वा ह वा एतद्देवता स्तोत्रं प्रत्युपतिष्ठन्ति मया प्रतिपत्स्यते मया मयेति ।
स यदि शीर्ष्णा प्रतिपद्येत यैव शिरःप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यदि पक्षेण यैव पक्षौप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यदि पुच्छेन यैव पुच्छम्प्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
यद्यात्मना यैवात्मनःप्रतिपद्देवता भवति तामेव तेनर्ध्नोति ।
अन्तरिता इतरा देवता भवन्ति ।
सर्वा उ ह वै देवताश्शीर्षन्नेवेमे वै वसवः १६