तदाहुस्तवश्शाव्यमेवैतस्याह्नः पृष्ठं कार्यमिति ।
तस्यैषा कल्याण्येव प्रशंसा न त्वेवास्मिन्द्वौ सम्पादयतः ।
वामदेव्यमेवेत्याहुः ।
वामदेव्यं हि ।
तद्ध वै प्रत्यक्षं वामदेव्यं यद्रा जनम् ।
तस्य प्राणेन प्रस्तौति ।
ऋचा वै वामदेव्यस्य प्रस्तौति ।
प्राणेनैतस्य हिं हिं हिं प्राणोऽसदिति वै हिङ्कुर्वन्ति ।
यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम् ।
प्रजापतिर्वै पितादित्यः पुत्रः ।
प्रजापतिर्वामदेव्यमादित्यो राजनम् ।
तस्मादेष एतयोराभावत्तरं तपति ।
एतद्ध्यस्मात्तेजो निर्भिन्नम् ।
तद्वा अशीतिभिस्सम्पन्नम् ।
एकैकस्यां स्तोत्रियायां द्वे द्वे अशीत्यौ सम्पद्येते ।
ताः पञ्चाशदशीतयस्सम्पद्यन्ते ।
द्वे ह वा अशीत्यावहश्चैव रात्रिश्च ।
ताभ्यामेनमाशयन्ति ।
आशयन्त्येवैनमेताभ्याम् ।
तस्य यन्निधन पृष्ठान्येव तानि १५