तासु रौरवं प्रज्ञातमग्निष्टोमसाम ।
प्रज्ञातमग्निष्टोमसाम नेदन्तरयामेति ।
अथार्कपुष्पमन्नं वा अर्कः ।
तस्यैतत्पुष्पं यदारण्यम् ।
तद्ध्यरण्ये जायत आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै ।
अथाभीशवं तृप्त्या एव ।
तर्पयन्त्येवैनमेतेन ।
अथ पञ्चविंशत्यक्षरनिधनमाङ्गिरसम् ।
अङ्गिरसो वा ऋद्धिकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते सर्व एवार्ध्नुवन् ।
सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन साम्ना स्तुवते ।
तत्पञ्चविंशत्यक्षरनिधनं भवति ।
पञ्चविंशो वै प्रजापतिः ।
प्राजापत्यं महाव्रतं तत्तत्सलक्ष्म क्रियते ।
अथ नौधसं प्रज्ञातं ब्रह्मसाम ।
प्रज्ञातं ब्रह्मसाम नेदन्तरयामेति ।
अथ पृश्नि अन्नं वै पृश्नि अन्नाद्यस्यैवावरुद्ध्यै ।
अथ रौहिणकम् ।
एतेन वै प्रजापतिरेकशफानां पशूनां काममारोहत् ।
तद्यत्काममारोहत्तद्रौ हिणकस्य रौहिणकत्वम् ।
कामं पशूनां रोहति य एवं वेद ।
यथा ह वा इम आरण्याः पशवो मृगा एवमेतेऽग्र एकशफाः पशव आसुः ।
तानेतैरेव रौहिणकस्य किट्किटाकारैर्ग्राममुपानयत् ।
तत्त्रयोदशनिधनं भवति त्रयोदशस्य मास उपाप्त्यै ।
तद्वा अशीतिभिस्सम्पन्नम् ।
आशयन्त्येवैनमेतेन ।
अथ दैर्घश्रवसमन्नं वै दैर्घश्रवसमन्नाद्यस्यैवावरुद्ध्यै ।
अथ समन्तं समन्ताः प्रजापशुभिरसामेति ।
अथ यौधाजयं त्रिणिधनं सवनानां कॢप्त्यै ।
अथौशनमन्त्यं साम ।
अन्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवामहा इति १४