०१३

उच्चा ते जातमन्धसेति माध्यन्दिनस्य पवमानस्यान्धस्वतीर्गायत्र्यो भवन्ति प्राजापत्याः ।

प्राजापत्येऽहंस्तत्तत्सलक्ष्म क्रियते ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथामहीयवं प्राजापत्यं साम प्राजापत्येऽहन्क्रियते ।

अहरेव तद्रू पेण समर्धयन्ति ।

तेनैभ्यः समृद्धेन स्वायां जनतायामर्धुकं भवति ।

अथ दोहादोहीयं दुग्ध्या एव एतस्याह्नो दोहाय ।

अथ हरिश्रीर्निधनम् ।

श्रीर्वै हरिश्रीर्निधनम् ।

एतेन वा इन्द्र स्सर्वेषां देवानां श्रियमगच्छत् ।

श्रियमेवैतेन गच्छन्ति ।

ता दश स्तोत्रिया गायत्र्यां सम्पद्यन्ते ।

दशाक्षरा विराट् ।

अन्नं विराट् ।

मुखं गायत्री छन्दसाम् ।

मुखत एवैतदात्मनोऽन्नाद्यं दधते ।

पुनानस्सोम धारयेत्युभयरूपा बृहती भवति ।

एषा ह वा उभे सामनी उद्ययाम ।

तस्मादेतां कुर्वन्त्येव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः ।

आ पृच्छ्येन सधस्थेन प्रत्नेन धरुणेन च

पिबाच्युदिन्द्र त्वं सोममृचोर्गर्भे अध्याहितः

इति यत्र ह वै क्व चैषा बृहती क्रियते न हैव तस्येन्द्र ईशेत तं नागच्छेत् १३