अथ ह स्माहार्यकचित्सर्वमेवैतदहश्चतुर्विंशं कार्यम् ।
एकमेवैतत्स्तोत्रं पञ्चविंशं कुर्युः ।
अभ्यारोहो वा एष एकस्य स्तोत्रस्य यत्सर्वं पञ्चविंशं कुर्वन्ति ।
तथैतत्स्तोत्रमनभ्यारूढं भवतीति ।
तदु होवाच शाट्यायनिः कर्तपत्यमिवैतद्यन्न्वावैकस्यै स्तोत्रियायै छिद्यते यद्द्वाभ्यां यत्तिसृभ्यः ।
तस्य न्वेव प्रायश्चित्तिं विन्दन्ति वा न वाथ किं यदेकादशभ्यश्छिद्यते ।
को तस्य प्रायश्चित्तिः ।
एकदेवत्यं वा एतदहः प्राजापत्यमेव ।
प्रजापतिं वावैतेनाह्ना परिवेविषति ।
तस्मात्सर्वमेवैतदहः पञ्चविंशं कार्यमिति ।
तस्य त्रीणि शतानि स्तोत्रिया भवन्ति द्वाषष्टिश्च ।
ततो यानि हि त्रीणि शतानि विराट्सा ।
अथ या षष्टिरूधस्तत् ।
अथ ये द्वे स्तनावेव तावेतस्यैवाह्नो दोहाय ११