सना च सोम जेषि चेति दशर्चं भवति ।
ऋषयो वा एतदृद्धिकामा उपोत्थानं प्रियं वाचोऽपश्यन् ।
अथा नो वस्यसस्कृध्यथा नो वस्यसस्कृधीति तेनास्तुवत ।
ततो वै ते सर्व एवार्ध्नुवन् ।
सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते ।
तस्मिन्ह स्माह शक्तिर्विराजं गेयां सना च सोम जेषि च पवमान महि श्रव एकं द्वे त्रीणि चत्वारिपञ्च षट्सप्ताष्टौ नव दश हुम्भा ओइ भूरिति ।
तदाहुः कृत्रिमेवैषा विराडुपाकार्येव ।
सम्पदं लोभयति ।
ओमित्येतदेवाक्षरं गेयमिति ।
एतद्ध वा इदं सर्वमक्षरम् ।
यथा सूच्या पलाशानि सन्तृण्णानि स्युरेवमेतेनाक्षरेणेमे लोकास्सन्तृण्णाः ।
दशधा वा एतदतिविध्येमान्क्षरति शतधेमान्सहस्रधेमान् ।
तस्मादेतदेवाक्षरं गेयमिति पर्यासो भवति ।
यः पर्यासो कामस्स न उपाप्तोऽसदिति ।
ताः पञ्चविंशति स्तोत्रियास्सम्पद्यन्ते ।
पञ्चविंशो वै प्रजापतिः ।
प्राजापत्यं महाव्रतं तत्तत्सलक्ष्म क्रियते १०