क्त्च्ता उ वा एतौ विश्वजिदभिजितौ ।
अष्टावन्यस्सत्रिंशिनीर्विराजस्सम्पद्यन्तेऽष्टावन्यः ।
अयं वै लोकोऽभिजिदसौ विश्वजित् ।
पशव स्वरसामानः ।
तद्यदभिजिता स्तुत्वा स्वरसामभि स्तुवतेऽस्मिन्नेवैतल्लोके पशून्प्रतिष्ठापयन्ति ।
अथ यत्स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्मादमुतःप्रदानात्पशवो जीवन्ति ।
तस्य वा एतस्य वैषुवतस्याह्नो दश च पञ्चविंशानि स्तोत्राणि भवन्ति द्वे च स्तोत्रिये ।
ततो यानि दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत् ।
तैरस्य वैषुवतेऽहनि महाव्रतमुपेतं भवति ।
अथ ये द्वे स्तोत्रिये आदित्य एव स एतस्मिन्नहन्प्रतिष्ठितः ।
अथ ह स्म वा एतत्पुरा त्रिर्महाव्रतमुपयन्त्यारम्भणीयेऽहन्वैषुवते महाव्रतीये ।
तस्य वा एतस्यारम्भणीयस्याह्नश्चतुर्दश च पञ्चविंशानि स्तोत्राणि भवन्ति दश च स्तोत्रियाः ।
ततो यानि चतुर्दश पञ्चविंशानि स्तोत्राणि महाव्रतं तत् ।
तैरस्यारम्भणीयेऽहनि महाव्रतमुपेतं भवति ।
अथ या दश स्तोत्रिया दशाक्षरा विराट् ।
अन्नं विराट् ।
तेनो हावसेन यन्त्या वैषुवतादह्नः ।
अथ ये द्वे स्तोत्रिये विषुवतोऽतिरिच्येते तदु हान्नपानम् ।
द्वयमु ह वा अन्नस्य रूपं यच्चैवाश्नाति यच्च पिबति ।
स यथाश्नंश्च पिबंश्चेयादेवमेवैतदेताभ्यां यन्त्या महाव्रतीयादह्नः ।
त एतं स्वर्गं लोकमागच्छन्ति ।
एतन्महाव्रतीयमहः ।
एष वाव स्वर्गो लोको यन्महाव्रतीयमहः ।
स य एतदेवं वेद त्रिरुपेतमस्य महाव्रतं भवति गच्छति स्वर्गं लोकम् ८