००७

क्त्च्स यथा सर्पिषः कुम्भं वा मधुकुम्भं वा जालोद्दिताशयं ह्रियेरन्नेवमेवैष एताभिर्विराड्भिः परिगृहीतः ।

प्राञ्च प्रत्यञ्च यत एताभिर्धृतः ।

तान्वा एतानेके स्वरसाम्नोऽग्निष्टोमानेव कुर्वन्ति स्तोत्रबृहतीमिदं कुर्म इति वदन्तः ।

ये वै त्रयोऽग्निष्टोमाष्षट्त्रिंशत्तानि स्तोत्राणि ।

द्वादशैकस्य द्वादशैकस्य द्वादशैकस्य तत्षट्त्रिंशत् ।

षट्त्रिंशदक्षरा वै बृहती ।

बृहती स्वर्गो लोकः ।

सैतं स्पृशति ।

ते बृहत्यैतं स्वर्गं लोकं गच्छामेति ।

ते ह ते गच्छन्त्येव यथा त्वृतेऽन्नाद्गच्छेदेवम् ।

अथ यदुक्थ्या भवन्ति ।

पशवो वा उक्थानि ।

अन्नं पशवः ।

स यथान्नेन सह श्रेयांसं प्रतिनन्दन्तमुपेयादेवमेवैनमेतदुक्थ्यै स्वरसामभिरुपयन्ति ।

अथो हैतौ देवतत्त्वावेव यद्विश्वजिदभिजितौ ।

अन्नमेतद्यत्स्वरसामानः ।

स यथा सूनायामन्नमाधाय श्रेयस उपहरेदेवमेवास्मा एतद्विश्वजिदभिजिद्भ्यामेतदन्नमुपहरति ।

अथो हैषा शान्तिरेव क्रियते ।

अग्निष्टोमसाम स्यादाग्निमारुतं शस्त्रं विषुवान् ।

क एतांस्त्रीनग्नीनभ्युपेत्य शोभयतः प्रदग्धो हैव शयीत ।

तद्यदुक्थान्यन्तरेण भवन्ति ।

पशवो वा उक्थानि ।

अन्नं पशवः ।

अन्नेनैतमशमयन् ।

नार्मेधेनैवैनं तच्छमयित्वान्तत उपयन्ति ७