००५

क्त्चसौ वा आदित्योऽत्राग्र आसीद्यत्रैतच्चात्वालम् ।

स इदं सर्वं प्रातपत् ।

तस्य देवाः प्रदाहादबिभयुः ।

तेऽब्रुवन्सर्वं वा अयमिदं प्रधक्ष्यति ।

एतेमूर्ध्वमुदूहामेति ।

तं षड्भिर्मासैरूर्ध्वमुदौहन् ।

तमेकविंशे विषुवत्यध्यादधुः ।

स एष एकविंशे विषुवत्यध्याहितस्तपति ।

तद्ये च ह वा इत ऊर्ध्वा लोका ये चामुतोऽर्वाञ्चस्तेषामेष एतदुभयेषां विषुवति ।

तद्यदुभयेषां विषुवति तस्माद्विषुवान्सः ।

यथा वै रथनाभावरास्समग्रा एवं हैतस्मिन्सर्वे लोकास्समग्राः ।

तान्वा एतानेके परस्ताद्विषुवत ऊर्ध्वानेव षडहानुपयन्ति ।

यथैवैत आ विषुवत उपयन्त्येवमेवापि पराञ्चः ।

पराङ्वै स्वर्गो लोकः ।

पराञ्च एतं स्वर्गं लोकं रोहाम ।

प्रत्यवरोहस्स यदर्वाञ्च उपेयाम ।

अथैवमप्रत्यवरूढमिति वदन्तस्ते ये ह ते तथोपयन्ति य एवं तस्मादादित्यादर्वाञ्चो लोकास्तानेवाप्नुवन्ति ।

यद्यपि बहून्संवत्सरानुपयन्त्यथ तानेवाप्नुवन्ति ।

अथ य एवैतान्पराचश्चार्वाचश्च षडहानुपयन्ति त एवैतानुभयाल्ँ लोकानाप्नुवन्ति पराङियानर्वाङिति ५