क्त्चथ यथो संवत्सरं भृत्वा गर्भं जनयेदृतौ पक्वा ओषधीः प्रचिनुयुस्तासां कामान्कुर्वीरन्नेवं तद्यदुपरिष्टात्संवत्सरस्य पृष्ठान्युपयन्ति ।
अथ ह स्माह चित्रो गाङ्ग्यायनि स्पन्दनैषा बहुदोहिनी यत्पृष्ठानि ।
कोऽहरह स्पन्दनायै धारयितॄनेषिष्यति ।
न वा एतान्यव्यूढे दुह्रे नो वा एतान्युपरिष्टाद्व्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे ।
स यथा स्पन्दनां रज्जुभिर्व्यपतत्य दुह्युरेवमेतान्युपरिष्टाद्व्यूढे दशरात्रे गायत्र्या परिहृतानि दुह्रे ।
स यथा उपसृजेदेवं तद्यद्गायत्रमुखस्त्र्यहो यथाभिदध्यादेवं तद्यद्गायत्रमध्यो यथापहृत्य दुह्यादेवं तद्यद्गायत्रोत्तमः ।
तस्मादुपरिष्टादेवोपेत्यानीति ।
तदु होवाच शाट्यायनिर्यो वा एष चन्द्र मा एष वाव संवत्सर एष प्रजापतिरेष मास इति ।
एतावान्वावैष यावान्मासः ।
एतं वावैष आप्त्वा पुनः पल्ययते ।
स पञ्चदश रात्रीरूर्ध्व एति पञ्चदशार्वाङ् ।
या आपूर्यते ता ऊर्ध्व एत्यथ या अपोछंस्ता अर्वाङ् ।
स आपूर्यमाणोऽमुं लोकं गच्छति ।
सोऽमुना लोकेन संस्पृश्यान्नं भवति ।
स यदस्य तत्र स्वद्यं तत्स्वद इत्यपोछन्निमं लोकं आगच्छति ।
स इमा अप ओषधीः प्रविशति ।
स इमा अप ओषधीः प्रविश्यास्वप्स्वोषधीष्वात्मानं न्युद्यापूर्यमाणोऽमुं लोकं गच्छति ३