\यो ददत् ।
अथ गायत्र्युदपतत् ।
तामनुष्टुम्माता प्रत्यन्वैक्षत ।
तस्मान्माता पुत्रं जनं यन्तं प्रत्यन्वीक्षेत जीवन्नाहरन्नागच्छेति ।
क्त्च्क्त्च्वागेषा यत्पृष्ठानि ।
तामेतां विप्रयुञ्जते ।
तां विहरन्ति ।
सा प्रथममहः प्राप्य रथन्तरं भवति ।
इयमेव पृथिवी ।
वाग्वै रथन्तरम् ।
सैषावदति ।
सा द्वितीयमहः प्राप्य बृहती भवति यामिमां श्रेष्ठी वाचं वदतीत्यवोचदिति ।
सा हि दूराच्छ्रूयते ।
सा तृतीयमहः प्राप्य वैरूपा भवति यदिदं तिर्यग्वाच एहि प्रेह्याहरोपाहराशय पाययेति ।
सा चतुर्थमहः प्राप्य विराड्भवति ।
तूष्णीं निषद्यम् ।
एतद्ध वै वैराज्यं वाचो यत्तूष्णीन्निषद्यं यामिमां श्रेष्ठिनस्तूष्णीमासीनस्यैव जिज्ञासन्ते ।
सा पञ्चममहः प्राप्य शक्वरी भवति यया प्रशिष्टश्शक्नोति ।
सा षष्ठमहः प्राप्य रेवती भवति ययान्नाद्यं प्रदीयते ।
सा न मासि-मास्यात्तव्या ।
लेलिभस्यैतदाजानं यामिमां लेलिभा वाचं वदन्ति ।
इमां वा अयं ह्योऽवददिमां पूर्वेद्युरिमां पूर्वसमाम् ।
समानीं बत वाचं वदति न बतैनं पर्येतीति ।
एवं तद्यन्मासि-मासि पृष्ठान्युपयन्ति १