२८७

अथ बृहत्यथ त्रिष्टुप् ।

तदेतद्ब्रह्मणा च क्षत्रेण चोभयतोऽन्नाद्यं परिगृहीतम् ।

ब्रह्मणा च ह वा एनं क्षत्रेण चोभयतोऽन्नाद्यं परिगृहीतमुपतिष्ठते य एवं वेद ।

तस्माद्ब्राह्मणेन क्षत्रियाय न द्रो ग्धव्यं न क्षत्रियेण ब्राह्मणाय ।

समानं ह्येनयोरन्नाद्यम् ।

तस्माद्यद्ब्राह्मणो महदिव गच्छति क्षत्रियमेव स तस्यान्नाद्यस्य द्वितीयं गोप्तारमिच्छते ।

यत्क्षत्रियो ब्राह्मणमु एव ।

चतुरक्षराणि ह वा अग्रे छन्दांस्यासुरयज्ञवाहानि ।

अथ हेन्द्र स्य त्रिदिवे सोम आस ।

तं हाग्नयो गन्धर्वा जुगुपुरेत एव धिष्णयाः ।

त उ एवाशीविषाः ।

स हिरण्मय्योः कुश्योरास ।

ते ह स्म निमेषमात्रमभिसम्पततः ।

तानीमानि छन्दांस्यब्रुवन्सोममाहराम यज्ञं तनवामहा इति ।

सा जगती प्रथमोदपतदोजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना ।

तस्यै परेतायै सोमपालास्त्रीण्यक्षराण्यविन्दन्त ।

सैकाक्षरा पुनरागच्छद्दीक्षां च पशूंश्चाहरन्ती ।

तस्माद्य एव पशुमान्भवति तं दीक्षोपनामुका ।

अथ त्रिष्टुबुदपतत् ।

तस्यै परेतायैसोमपाला एकमक्षरमविन्दन्त ।

सा त्र्यक्षरा पुनरागच्छत्तपश्च दक्षिणाश्चाहरन्ती ।

तस्मात्त्रिष्टुभो लोके दक्षिणा नीयन्ते तस्मादु तमेव तपस्तप्यमानं मन्यन्ते २८७