छन्दांसि यदिमाल्ँ लोकान्व्यभजन्तेममेव लोकं गायत्र्यभजतान्तरिक्षं त्रिष्टुबमुं जगती ।
ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब्विड्जगती ।
सेयं त्रिष्टुबस्मिन्नन्तरिक्षे नालमनेनोत्पादनेनारारण्यत ।
सेमां गायत्रीम्प्राङभ्यविध्यत् ।
तां अभ्यतपत् ।
तस्या अबिभेदायतनं म उपहरिष्यत इति ।
तामब्रवीन्नमस्तेऽस्तु किङ्कामा माभिविध्यसीति ।
प्रदानं मे प्रयच्छेत्यब्रवीत् ।
तस्यै द्वे अष्टाक्षरे पदे प्रायच्छत् ।
सामूं जगतीमुपपल्यायत ।
तामभ्यविध्यत् ।
तां अभ्यतपत् ।
तस्या अबिभेदायतनं म उपहरिष्यत इति ।
तामब्रवीन्नमस्तेऽस्तु किङ्कामा माभिविध्यसीति ।
प्रदानं मे प्रयच्छेत्यब्रवीत् ।
तस्यै द्वादशाक्षरं पदं प्रायच्छत् ।
सेमामेव गायत्रीं पुनरुपपल्यायत ।
तामब्रवीद्यत्ते प्रदानं प्रादां किमु न्वेवेच्छसीति ।
सर्वमेव म आत्मानं प्रयच्छेत्यब्रवीद् ।
अथ किमु मे भविष्यतीति ।
समानं नावन्नाद्यं भविष्यति पुरस्त्वा धास्य इति ।
तथेति ।
तां पुरोऽधत्त ।
तस्यै सर्वमात्मानं प्रायच्छत् ।
तद्यद्गायत्री सर्वमात्मानं प्रायच्छत्तस्माद्ब्राह्मणः सर्वेणात्मना क्षत्रियमभ्येति ।
अथो यज्जगती न सर्वमिवात्मानं प्रायच्छत्तस्मादु क्षत्राद्विडपक्राममिव चरति ।
यां यां एव तां गायत्री च जगती च सम्प्रायच्छतां सैवैषा बृहत्यभवत् ।
तस्माद्बृहत्यै त्रीणि चाष्टाक्षराणि पदानि द्वादशाक्षरं च ।
सैषा गायत्री प्रथमतो युजते उच्चा ते जातमन्धसा इति ।
एषा पुरोहितावसाने ।
विन्दते पुरोधां वा पुरोधामात्रं वा य एवं वेद २८६