अथ हाहीनसमाश्वत्थिं केशी दार्भ्यः केशिनः सात्यकामिनः पुरोधाया अपरुरोध ।
स ह स्थविरतरोऽहीना आस कुमारतरः केशी ।
तं होवाचां केशिन्किं मे विद्वान्राजन्यमुपाहृथा इति ।
स होवाच दहेदनुष्टुभमेव सर्वाणि छन्दांष्युपास्महे बृहतीं पशून्यज्ञं स्वर्गं लोकमिति ।
तं हास्रं विवेद ।
स ह कृपयां चक्रे ।
तं होवाच मा कृपयथाः ।
यदि राजन्यकाम्या कृपयस एष ते राजन्यः ।
अपि वै वयमन्यं राजन्यमेषिष्यामहा इति ।
स होवाच नैतत्केशिन्राजन्यकाम्या ब्रह्मचर्यमेव वै मा तदनुसम्स्मृत्यास्रमविदत् ।
चचार वै ब्रह्मचर्यम् ।
उपजरसं वावेदमशृण्म यदयमियत्कुमारकोऽभिवेदयत इति ।
एवमेवैतदनुसम्स्मृत्यास्रमविददिति ।
स यदनुष्टुभं सर्वाणि छन्दांस्युवाचाष्टाक्षरा गायत्र्येकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती वागिति यज्ञायज्ञीयस्य निधनम् ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
एतदनुष्टुभं सर्वाणि छन्दांस्युवच ।
बृहतीं पशूनिति ।
या वा अनुष्टुप्सा बृहती ।
चतुष्पात्सु वा एषा पशुषूपहितेषु बृहत्यभवत् ।
यज्ञमिति ।
यो ह्येव पशुमान्भवति तं यज्ञ उपनमति ।
स्वर्गं लोकमिति ।
बृहती ह्येव स्वर्गो लोकः ।
अथ ह सङ्गमन क्षैमिः सत्ययज्ञं पौलुषिं पप्रच्छाचार्येण प्रहित आरुणिना सत्ययज्ञ पौलुषे यत्स्तुता गायत्री भवति स्तूयते त्रिष्टुबस्तुता जगती कथं ताः सर्वाः सम्पद्य माध्यन्दिनं सवनमुद्यच्छन्तीति ।
तद्ध न प्रत्युवाच ।
तेन हैनं जिगाय ।
स यत्प्रत्यवक्ष्यद्यस्माद्ब्राह्मणश्च वैश्यश्च क्षत्रियमधस्तादुपासाते अथो यदस्याद्यावभवतामथो यदेवैतद्द्वादशाक्षरं पदमिति २८५