२८४

सवनान्येवेन्द्रा ग्नी अनुप्राविशताम् ।

ततो वै तान्मृत्युः पाप्मा न निरजानात् ।

कुतो हि तस्य मृत्युः पाप्मेशिष्यते यं न निर्जानाति ।

न हैनं मृत्युः पाप्मानुविन्दति य एवं वेद ।

छन्दांसि वाव तान्मृत्योः पाप्मनोऽच्छादयन् ।

तद्यदेनाञ्छन्दांसि मृत्योः पाप्मनोऽच्छादयंस्तच्छन्दसां छन्दस्त्वम् ।

छादयन्त्येवैनं छन्दांसि मृत्योः पाप्मनो य एवं वेद ।

तद्येन येन ह वै छन्दसैवंविदार्त्विजं करोति तत्तदेव स तर्हि प्रपन्नो भवति ।

येन येन ह्येवैनं छन्दसा कुर्वन्तमुपवदति तस्मादावृश्च्यते ।

तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद ।

य एवैनमुपवदति स आर्तिमार्च्छति ।

अथ होर्जो जानायनः कपिवनं भौवायनं पप्रच्छ यद्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनमथ केयमनुष्टुबयातयाम्नी सवनमुखान्युपापतत्यान्ताद्यज्ञं वहतीति ।

स होवाच वाग्वा अनुष्टुब्वाचो यज्ञस्तायते ।

तद्यथा वा अदो भद्र बलीवर्देन रज्ज्वभिहितेन पुनः पुनः प्रतिधावन्ति प्रतिकूलाय वा गुरवे वोद्वोढ व एवं वा एतं वाचमनुष्टुभं सवनमुखेषु पर्याणाय युञ्जन्ति ।

प्रतिकूलानीव वा एतानि यत्सवनमुखानि ।

सैषा वागेवायातयाम्न्यान्ताद्यज्ञं वहति ।

यो वा अनुष्टुभं सर्वत्रापीं वेद सर्वत्र हास्यापि पुण्ये भवति ।

अष्टाक्षरा गायत्र्येकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती वागिति यज्ञायज्ञीयस्य निधनम् ।

तद् द्वात्रिंशत् । द्वात्रिंशदक्षरानुष्टुप् ।

अपि वा एतस्यै प्रातःसवनेऽपि माध्यन्दिने सवनेऽपि तृतीयसवनेऽपि वा एतस्यै ब्रह्मण्यपि क्षत्रेऽपि विश्यपि वा एतस्या अस्मिल्ँ लोकेऽप्यन्तरिक्षेऽप्यमुष्मिन्स य एवमेतां अनुष्टुभं सर्वत्रापीं वेद सर्वत्र हैवास्यापि पुण्ये भवति २८४