प्रजापतिर्देवानसृजत ।
तान्मृत्युः पाप्मान्वसृज्यत ।
ते देवाः प्रजापतिमुपेत्याब्रुवन्कस्मा उ नोऽसृष्ठा मृत्युं चेन्नः पाप्मानमन्वस्रक्ष्यन्नासिथेति ।
तानब्रवीच्छन्दांसि सम्भरत तानि यथायतनं प्रविशत ततो मृत्युना पाप्मना व्यावर्त्स्यथेति ।
वसवो गायत्रीं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
रुद्रा स्त्रिष्टुभं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
आदित्या जगतीं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
विश्वे देवा अनुष्टुभं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
मरुतः पङ्क्तिं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् ।
साध्याश्चाप्त्याश्चातिच्छन्दसं समभरन् ।
तां ते प्राविशन् ।
तान्साच्छादयत् २८३