२८२

तद्यत्र ह वा एवंविद्यजत एवम्विद्वा याजयति न हैव तस्य देवा ईशते ।

यत्तन्नागच्छेयुर्यदि च ह भक्षयिष्यन्तो भवन्ति यदि च नाथ हैव गच्छन्ति ।

यदि ह शुचिर्भवति भक्षयन्ति यद्यशुचिर्प्रेक्षयन्ति ।

तद्धापि पणाय्यं यस्य प्रेक्षीवायन् ।

यो वै देवानां पात्रं वेद पात्र्यः स्वानां भवति ।

ब्राह्मणो ह वाव देवानां पात्रम् ।

पात्र्यः स्वानां भवति य एवं वेद ।

तद्यथा ह वै शुद्धेन शुचिना पात्रेण पिपासन्त्येवं ह वाव देवा ब्राह्मणेन शुद्धेन शुचिना पिपासन्ति ।

तस्मादु ह ब्राह्मणेन शुद्धेनैव शुचिना बुभूसितव्यम् २८२