तदु ह स्माहेयपिः सौमापः स वाद्य यजेत स वान्यं याजयेद्यो यथा महति तीर्थे सिकते गा असम्बाधमानाः सन्तर्पयेदेवं सर्वा देवता अनुसवनं छन्दःसु अक्षरमक्षरमनु असम्बाधमानाः सन्तृप्यन्तीर्विद्यादिति ।
अष्टाक्षरा गायत्र्यष्टौ वसवः ।
वसूनां गायत्रं प्रातःसवनम् ।
तत्ते प्रातःसवने छन्दःस्वक्षरमक्षरमनु असम्बाधमानाः सन्तृप्यन्ति ।
एकादशाक्षरा त्रिष्टुबेकादश रुद्राः ।
रुद्रा णां त्रैष्टुभं माध्यन्दिनं सवनम् ।
तत्ते माध्यन्दिने सवने छन्दःस्वक्षरमक्षरमनु असम्बाधमानाः सन्तृप्यन्ति ।
द्वादशाक्सरा जगती द्वादशादित्याः ।
आदित्यानां जागतं तृतीयसवनम् ।
तत्ते तृतीयसवने छन्दःस्वक्षरमक्षरमनु असम्बाधमानाः सन्तृप्यन्ति ।
स य एवमेता देवानां तृप्तीर्वेद तृप्यत्यात्मना तृप्यत्यस्य प्रजा २८१