यो वै देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु ।
पवमाना वै देवयशसम् ।
ते ह ते प्राणा एव ।
त एनं देवेषु निवेदयन्ते ।
अभ्यावर्ता मनुष्ययशसम् ।
ते ह तेऽपाना एव ।
त एनं मनुष्येषु निवेदयन्ते ।
एतद्वै देवयशसं च मनुष्ययशसं च ।
स य एवमेतद्देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु ।
यो वै मितं चामितं च वेद मितं च हास्यामितं च बहु भवति ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
साम वै देवाः प्रजाः शस्त्राणि ।
तदेव एतत् ।
एत एवापि सर्वे देवा यत्स्तोत्राणि ।
तद्यन्मितानि स्तोत्राणि भवन्ति तस्मान्मिता देवाः ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः ।
अथ यस्मादमितानि शस्त्राणि तस्माद्वमिताः प्रजाः ।
न तान्विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तः शूद्रा इति ।
एतद्वै मितं चामितं च ।
मितं हास्यामितं च बहु भवति य एवं वेद ।
ये अर्वाञ्चस्तं उ पराच आहुर्ये पराञ्चस्तं उ अर्वाच आहुः । इन्द्र श्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति इति ।
पवमाना वै पराञ्चः ।
तेषां चमसा अर्वाञ्चः ।
ते ह ते प्राणा एव ।
तस्मात्प्राण्यापानितुं शक्नोति ।
अभ्यावर्ता अर्वाञ्चः ।
तेषां पराञ्चश्चमसाः ।
ते ह तेऽपाना एव ।
तस्माद्वपान्य प्रानितुं शक्नोति २७९