यो वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
तद्यत्पवमानान्पावमानीष्वेव स्तुवते तस्माद्देवा एकरूपाः सर्वे शुक्लाः ।
अथ यस्मात्पृष्ठोक्थैर्नानारूपासु नानादेवत्यासु स्तुवते तस्मादु प्रजा नानारूपाः श्वेतो रोहितः कृष्णः ।
एतद्वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद ।
यो वै देवानामुद्धारं वेदोदुद्धारं हरत उद्धार्यो भवति ।
बहिष्पवमानं वाव देवानामुद्धारः ।
तेन सकृद्धिङ्कृतेन पराचा स्तुवते ।
तस्मात्पराङुद्धारः ।
स एष एव देवानां श्रेष्ठः ।
तस्योद्धारः प्रजाः ।
प्रजापतेरेवोदुद्धारं हरत उद्धार्यो भवति य एवं वेद ।
तमेतं यज्ञस्यरसं प्रवृह्य पराङ्यस्मात्प्रजापतये प्रयच्छति तस्माद्बहिष्पवमानेन स्तोष्यन्तः प्रह्वारा इव प्रकुपिता इव सर्पन्ति ।
एवमिव वै श्रेयस उपचारः ।
तस्मादु तस्य स्तोत्रे न व्याहरेत् ।
को हि श्रेयसः परिवेषणमववदितुमर्हति ।
यो वै श्रेयसः परिवेषणमववदति यया वै स तमार्त्या कामयते तयैनं निनयति ।
अथ यत्ततोऽध्वर्युः सम्प्रैषान्वदति प्रजापतय एव तद्यज्ञस्य रसं प्रदाय तमाप्याययति ।
तेनास्यापीतेन रसवता स्तुतं भवति २७८