। ।
पृथुर्ह वैन्यो दिव्यान्व्रात्यान्पप्रच्छ यज्ञस्य धाम परमं गुहा सन्निर्मितं महतोऽन्तरिक्षात् । कस्माद्यन्ति पवमानाः पराञ्चः कस्मादुक्थ्याः पुनरभ्याकनिक्रदति इति ।
देवा अन्यां वर्तनिमध्वरस्य मानुषास उपजीवन्त्यन्याम् । तस्माद्यन्ति पवमानाः पराञ्चस्तस्मादुक्थ्याः पुनरभ्याकनिक्रदति इति ह प्रत्यूचुः ।
यो वै देवान्मनुष्येष्वाभक्तान्वेद मनुष्यानु देवेष्वाभक्त एव देवेषु भवत्याभक्तो मनुष्येषु ।
गच्छति तं लोकं यत्र देवा नास्माद्देवता अपक्रामन्ति ।
देवा वै पवमानाः प्रजा पृष्ठोक्थानि ।
साम वै देवाः प्रजाश्छन्दांसि ।
तद्यत्पवमानसामानि पराञ्च्येव भवन्त्यथेयमृगनुनिवेष्टते तेन देवा मनुष्येष्वाभक्ताः ।
अथ यदभ्यावर्तिष्वृचं निवेष्टमानां सामानुनिवेष्टते तेनो मनुष्या देवेष्वाभक्ताः ।
स य एतदेवं वेदाभक्त एव देवेषु भवत्याभक्तो मनुष्येषु ।
गच्छति तं लोकं यत्र देवा नास्माद्देवता अपक्रामन्ति २७७