२७६

तदाहुरशान्तमिव वा एतत्स्तोत्रं यत्स्तोत्रियेण नानुप्रतिपद्यन्ते ।

केनैषां स्तोत्रियप्रतिपदोऽनितं भवतीति ।

स ब्रूयाद्वाग्वा अनुष्टुब्वाच्यु वै सर्वाणि छन्दांसि ।

यदाग्नेयमैन्द्रं पवमानं तेनैषां स्तोत्रियप्रतिपदोऽनितं भवति ।

जया ह वै नामैतेते स्तोमा यत्पवमानाः ।

पवमानैर्वै देवा असुरान्पराञ्च एव जयन्त आयन् ।

तद्यत्पवमानाः पराञ्च एव भवन्ति यथा पराङेव जयन्नियात्तादृक्तत् ।

तान्यदनुष्टुभानुप्रतिपद्यन्ते वाग्वा अनुष्टुब्वागु वै वाचयित्री वाचा वा आह प्रेहि जयाभिक्राम मापक्रमीरिति ।

स यथा वाचा ब्रूयाद्प्रेहि जयाभिक्राम मापक्रामीरिति तादृक्तत् ।

देवा वै पवमानाः ।

तानि देवानां स्तोत्राणि ।

तानि देवा अन्वायत्ताः ।

प्रजाः पृष्ठोक्थानि ।

तानि प्रजानां स्तोत्राणि ।

तानि प्रजा अन्वायत्ताः ।

तद्यत्पवमानैः पराचीनैरेव स्तुवते तस्मात्पराञ्चो देवाः ।

पराङादित्य एति पराङ्चन्द्र माः पराञ्चि नक्षत्राणि पराङग्निर्दहन्नेति ।

अथ यस्मात्पृष्ठोक्थैः पराचीनैश्चार्वाचीनैश्च स्तुवते तस्मादु पराचीश्चार्वाचीश्च प्रजाः ।

पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते ।

पराग्रेतस्सिक्तं तदर्वाक्प्रजायते २७६