२७४

दैवीं ह वा एष संसदमेति यः पवमानैरुद्गायति ।

स यथा श्रेयांसमभ्यायन्नेवं शिक्षन्निवोपशिक्षन्निवोपनमस्यन्निव ।

संसिद्धैः शक्नुवन् अनुपहन्यमान उद्गायेत् ।

यथायन्तमामीवेद्यथा यद्याचेत्तद्दद्यात्तादृक्तत् ।

अथ य एतैरसंसिद्धैरशक्नुवन्नुपहन्यमान उद्गायेद्यथायन्तं प्रतिमीवेद्यथा यद्याचेत्तन्न दद्यात्तादृगु तत् ।

तदु हात्रैव यज्ञस्य समृद्धं च व्यृद्धं च विज्ञायते ।

अतिहार्या ह वा एषा यत्पवमानाः ।

यो वा अतिहार्यामसंवीतोऽतिगाहते मृदा वै स लिप्यत आयति वा ।

अथ यः संवीतोऽतिगाहते न मृदा लिप्यते नायती ।

एवमिव वै पवमाना उपचार्याः ।

तदाहुर्यदन्यानि स्तोत्राणि स्तोत्रियप्रतिपदोऽथ कस्मात्पवमाना अस्तोत्रियप्रतिपद इति ।

स ब्रूयात्प्राणा वै पवमानाः प्राणा उ पावमान्यः ।

तद्यत्पवमानान्पावमानीभिरेवानुप्रतिपद्येरन्पराञ्च एव प्राणान्निर्मृज्युरिति ।

तान्यदनुष्टुभानुप्रतिपद्यन्ते वाग्वा अनुष्टुब्वाच्यपानो नियतो वाचैव तदपानं दाधार २७५