त्रयो ह वा एते समुद्रा यत्पवमाना अग्निर्वायुरसावादित्यः ।
तैश्छन्नैरुद्गायेत् ।
स यर्हि वै प्रजापतिः प्रजाभ्यो वृष्टिमन्नाद्यं प्रयच्छति छाद्यन्त एते तर्हि ।
प्रजापतिरेष सः ।
यदुद्गास्यन्पवमानैश्छन्नैरुद्गायति छादयत्येव यजमानमन्नाद्येन छादयत्यात्मानं छादयति प्रजाः ।
बहुवर्षी तत्र पर्जन्यो भवतीति ह स्माह कूटः शैलनो यत्राहमुद्गायामीति ।
यत्र वै बहुवर्षी पर्जन्यो भवति कल्याणो वै तत्र बलीवर्दोऽश्वतरो हस्ती निष्कः पुरुषः ।
रूपं रूपं वाव तत्र कल्याणमाजायत इत्येतद्ध तद्विद्वानुवाच ।
यो वै देवांश्च मनुष्यांश्च व्यावर्तयति वि पाप्मना वर्तते ।
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि ।
तैश्छन्नैः परोक्षमनिरुक्तैः पवमानैरुद्गायेत् ।
छन्ना इव हि परोक्षमनिरुक्ता इव देवाः ।
प्रजाः पृष्ठोक्थानि ।
तैरच्छन्नैः प्रत्यक्षं निरुक्तैरुद्गायेत् ।
अच्छन्ना इव हि प्रत्यक्षं निरुक्ता इव मनुष्याः ।
एतद्वै देवांश्च मनुष्यांश्च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद २७४