२७२

ते ह वै ते तथैकैकेनैवासुः ।

अथ य एवमेतानि सर्वाण्येकधा वेदैवं ह्येतानि सर्वाण्येकधा भवन्त्येकधैव श्रेष्ठः स्वानां भवति ।

तदु होवाच वासिष्ठश्चैकितानेयः पश्चैवानुबुध्य धुरो ह वा इमे ब्राह्मणा मीमांसमानास्तामेव धुरं नावाग्मन्यस्यामेता धुरि सर्वा अधीति ।

रेतस्यां ह वै स तदुवाच ।

यां ह वा आहुरेका धूरिति रेतस्या ह वै सा धुरां धूरन्नं तद् ।

धुरामलङ्करणम् ।

सुरभिर्गन्धो गायत्र्यै दर्शनीयं त्रिष्टुभश्श्रवणीयं जगत्यै ।

यदेव वाचा पुण्यं वदति तदनुष्टुभः ।

स ह वा एना अन्नमादधाति य एना एतैः समर्धयति ।

ता एनमन्नाद्यमाना अन्नादं श्रेष्ठं स्वानां कुर्वन्ति ।

अन्नादः श्रेष्टः स्वानां भवति य एवं वेद २७३