२७१

ते हारुणिमूचुस्त्वं वै नो आचार्योऽसि त्वं प्रथमो ब्रूष्वेति ।

स होवाच गायत्रीमेवाहं प्रियमुपास इति ।

प्राणो वै गायत्री प्राणो वै प्रियम् ।

न वै प्राणात्प्रेयः किं चनास्ति ।

स य एवमेतां गायत्रीं प्रियमुपास्ते यथा प्रिय एव प्राण आत्मनेवं प्रिय एव स कीर्तेरेवं प्रियश्चक्षुष एवं प्रियः सनेर्भवतीति ।

अथ होवाच जीवलः कारीरादिस्त्रिष्टुभमेवाहं श्रियमुपास इति ।

क्षत्रं वै त्रिष्टुप्क्षत्रं वै श्रीः ।

स य एवमेतां त्रिष्टुभं श्रियमुपास्ते यस्मिन्नेवार्धे भवति तस्य श्रेष्ठो भवत्यप्येनं राजानोऽधस्तादुपासत इति ।

अथ होवाचाषाढः सावयसो जगतीमेवाहं भूमानं प्रजातिमुपास इति ।

भूमा वै प्रजातिर्जगती छन्दसाम् ।

स य एवमेतां जगतीं भूमानं प्रजातिमुपास्ते भूमानमेव प्रजया पशुभिर्गच्छति यत्रैव सजातो भवति तद्ग्रामणीर्भवतीति ।

अथ होवाचेन्द्र द्युम्नो भाल्लवेयोऽनुष्टुभमेवाहं यश उपास इति ।

वाग्वा अनुष्टुब्वागु वै यशः ।

वागुपर्युपर्यन्यान्कीर्तिश्चरति ।

स य एवमेतामनुष्टुभं यश उपास्त एषैवास्य वागनुष्टुबुपर्युपर्येवान्यान्कीर्तिर्विहरन्त्येति विवचनमेव भवतीति २७२